|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.14. अध्यायः 014
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या सैरन्ध्रीवेषधारणेन सुदेष्णागृहे निवासः ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच । 4-14-0x(3042)(28664)
ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता।
वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा ।
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ॥ 1 ॥ 4-14-1(28665)
वासश्च परिधायैकं कृष्णा सुमलिनं महत्।
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ 2 ॥ 4-14-2(28666)
प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता।
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ॥ 3 ॥ 4-14-3(28667)
अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि।
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता।
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ॥ 4 ॥ 4-14-4(28668)
वैशम्पायन उवाच। 4-14-5x(3043)
तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा।
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ॥ 5 ॥ 4-14-5(28669)
विराटस्य तु कैकेयी भार्या परमसंमता।
आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥ 6 ॥ 4-14-6(28670)
सा समीक्ष्य तथारूपामनाथामेकवाससम्।
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ॥ 7 ॥ 4-14-7(28671)
विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा।
अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ॥ 8 ॥ 4-14-8(28672)
अपनीय ततः सर्वा आनयध्वमिहैव ताम्।
यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा।
तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ॥ 9 ॥ 4-14-9(28673)
तास्तथोक्ता उपागम्य द्रौपदीं परिसंगताः।
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ॥ 10 ॥ 4-14-10(28674)
भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले।
त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि।
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ॥ 11 ॥ 4-14-11(28675)
तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा।
ईप्सितर्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् ॥ 12 ॥ 4-14-12(28676)
राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता।
सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ॥ 13 ॥ 4-14-13(28677)
कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा।
कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च।
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ॥ 14 ॥ 4-14-14(28678)
सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा।
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ॥ 15 ॥ 4-14-15(28679)
अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता।
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ॥ 16 ॥ 4-14-16(28680)
रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव ।
नानावर्णविचित्रां च सर्वाभरणभूषिताम् ॥ 17 ॥ 4-14-17(28681)
सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम्।
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ॥ 18 ॥ 4-14-18(28682)
सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम्।
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ॥ 19 ॥ 4-14-19(28683)
ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः ।
परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ॥ 20 ॥ 4-14-20(28684)
निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम्।
गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम्।
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ॥ 21 ॥ 4-14-21(28685)
न ह्रस्वां नातिमहतीं जातां बहुतृणे वने।
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ॥ 22 ॥ 4-14-22(28686)
तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम्।
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ॥ 23 ॥ 4-14-23(28687)
रोहिणीमिव ताराणां दीप्तामग्निशिखामिव।
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ॥ 24 ॥ 4-14-24(28688)
सुलभामिव नागीनां मृगीणामिव किन्नरीम्।
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ॥ 25 ॥ 4-14-25(28689)
तामचिन्त्यतमां लोके इलामिव यशस्विनीम् ।
सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ॥ 26 ॥ 4-14-26(28690)
सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् ।
सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ॥ 27 ॥ 4-14-27(28691)
का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता।
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ॥ 28 ॥ 4-14-28(28692)
गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता।
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ 29 ॥ 4-14-29(28693)
शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा।
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ॥ 30 ॥ 4-14-30(28694)
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ।
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ॥ 31 ॥ 4-14-31(28695)
अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी ।
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ॥ 32 ॥ 4-14-32(28696)
तेनतेनैव संपन्ना काश्मीरीव तुरंगमा।
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ॥ 33 ॥ 4-14-33(28697)
देवि देवेषु विख्याता ब्रूहि का त्वमिहागता।
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ॥ 34 ॥ 4-14-34(28698)
त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम्।
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ॥ 35 ॥ 4-14-35(28699)
प्रवालपुष्पस्तबकैराचिता वनदेवताः।
त्वामेव हि निरीक्षन्ते विस्मिता रूपसंपदा ॥ 36 ॥ 4-14-36(28700)
अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः।
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ॥ 37 ॥ 4-14-37(28701)
न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी।
दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा ॥ 38 ॥ 4-14-38(28702)
द्रौपद्युवाच। 4-14-39x(3044)
नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी।
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ॥ 39 ॥ 4-14-39(28703)
पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे।
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ॥ 40 ॥ 4-14-40(28704)
तत्र द्वादशवर्षाणि वन्यमूलफलाशना।
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ॥ 41 ॥ 4-14-41(28705)
जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन्।
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ॥ 42 ॥ 4-14-42(28706)
सिन्धुवारकजातीनां रचयाम्यवतंसकान्।
पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् ।
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ॥ 43 ॥ 4-14-43(28707)
आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम्।
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ॥ 44 ॥ 4-14-44(28708)
तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता।
मालिनी चेति मे नाम स्वयं देवी चकार ह।
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ॥ 45 ॥ 4-14-45(28709)
न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने।
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ॥ 46 ॥ 4-14-46(28710)
योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा।
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ॥ 47 ॥ 4-14-47(28711)
साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च।
शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ॥ 48 ॥ 4-14-48(28712)
भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी ।
विचरामि महीं दुर्गां यत्र सायंनिवेशना ॥ 49 ॥ 4-14-49(28713)
वीरपत्नी यदा देवी चरमाणेषु भर्तृषु।
साऽहं विवत्सा विधिना गन्धमादनपर्वतात्।
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ॥ 50 ॥ 4-14-50(28714)
माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः।
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ॥ 51 ॥ 4-14-51(28715)
गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ ।
तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ॥ 52 ॥ 4-14-52(28716)
वैशम्पायन उवाच। 4-14-53x(3045)
एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता।
साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ॥ 53 ॥ 4-14-53(28717)
न भरेयमहं भद्रे संशयो मम विद्यते।
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ॥ 54 ॥ 4-14-54(28718)
साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि।
एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे ॥ 55 ॥ 4-14-55(28719)
स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि।
त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ॥ 56 ॥ 4-14-56(28720)
वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि।
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ॥ 57 ॥ 4-14-57(28721)
बिभर्षि परमं रूपमतिमानुषमद्भुतम्।
तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः ।
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ॥ 58 ॥ 4-14-58(28722)
राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः।
मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ 59 ॥ 4-14-59(28723)
यं हि त्वमनवद्याङ्गी नरमायतलोचने।
सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् ॥ 60 ॥ 4-14-60(28724)
सुस्नाताऽलंकृता हि त्वं यमीक्षेथा हि मानुषम्।
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ॥ 61 ॥ 4-14-61(28725)
न शोको न च सन्तापो न क्रोधो नानृतं वदे।
यं त्वं सर्वातवद्याङ्गि भजेथाः समलंकृता ॥ 62 ॥ 4-14-62(28726)
न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत्।
यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ॥ 63 । 4-14-63(28727)
पञ्चत्वमपि संप्राप्तं यं च त्वं परिपस्वजेः।
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ॥ 64 ॥ 4-14-64(28728)
यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः ।
अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः ॥ 65 ॥ 4-14-65(28729)
अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति।
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ॥ 66 ॥ 4-14-66(28730)
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः।
तथाविधमहं मन्ये तव सुभ्रु समागमम् ॥ 67 ॥ 4-14-67(28731)
अनुमानये त्वां सैरन्ध्रि नावमन्ये कथंचन।
भर्तृशीलभयाद्भद्रे तव वासं न रोचये ॥ 68 ॥ 4-14-68(28732)
सैरन्ध्र्युवाच। 4-14-69x(3046)
नाहं शक्या विराटेन यद्वा चान्येन केनचित्।
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ॥ 69 ॥ 4-14-69(28733)
गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः ।
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ॥ 70 ॥ 4-14-70(28734)
यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा।
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ॥ 71 ॥ 4-14-71(28735)
यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि।
सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका ।
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ॥ 72 ॥ 4-14-72(28736)
न तस्य त्रिदशा देवा नासुरा न च पन्नगाः।
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ॥ 73 ॥ 4-14-73(28737)
सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा ।
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ॥ 74 ॥ 4-14-74(28738)
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्।
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ॥ 75 ॥ 4-14-75(28739)
यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः।
तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ॥ 76 ॥ 4-14-76(28740)
न चाप्यहं चालयितुं शक्या केनचिदङ्गने।
दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः ।
एवं निवसमानायां मयि मा ते भयं हि भूत् ॥ 77 ॥ 4-14-77(28741)
वैशम्पायन उवाच। 4-14-78x(3047)
एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत्।
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ॥ 78 ॥ 4-14-78(28742)
कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि ।
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ॥ 79 ॥ 4-14-79(28743)
एवमाचारसंपन्ना एवं देवपरायणा।
रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् ॥ 80 ॥ 4-14-80(28744)
देवता इव कल्याणि पूजिता वरवर्णिनी।
वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते।
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ॥ 81 ॥ 4-14-81(28745)
वैशम्पायन उवाच। 4-14-82x(3048)
सुदेष्णयैवमुक्ता सा संप्रीता चारुहासिनी।
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ॥ 82 ॥ 4-14-82(28746)
याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशांपते।
अवसत्परिचारार्हा सुदुःखं जनमेजय ॥ 83 ॥ 4-14-83(28747)
एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना।
अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः ॥ 84 ॥ ॥ 4-14-84(28748)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-14-1 समुत्क्षिप्य वल्गिताग्राननिन्दितानिति खo थo धo पाठः ॥ 1 ॥ चतुर्दशोऽध्यायः ॥ 14 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|